|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.54. अध्यायः 054
Mahabharata - Udyoga Parva - Chapter Topics
सञ्जयेन पाण्डवेषु जयसाधनसामग्रीमभिधाय तेषु धार्तराष्ट्रकृतापकारनुस्मारणपूर्वकं धृतराष्ट्रगर्हणम् ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text
5-54-0(33883)
सञ्जय उवाच। 5-54-0x(3561)
एवमेतन्महाराज यथावदसि भारत।
युद्धे विनाशः क्षत्रस्य गाण्डीवेन प्रदृश्यते॥ 5-54-1(33884)
इदं तु नाभिजानामि तव धीरस्य नित्यशः।
यत्पुत्रवशमागच्छेस्तत्त्वज्ञः सव्यसाचिनः ॥ 5-54-2(33885)
नैष कालो महाराज तव शश्वत्कृतागसः।
त्वया ह्येवादितः पार्था निकृता भरतर्षभ ॥ 5-54-3(33886)
पिता श्रेष्ठः सुहृद्यश्च सम्यक्प्रणिहितात्मवान्।
आस्थेयं हि हितं तेन न द्रोग्धा गुरुरुच्यते ॥ 5-54-4(33887)
इदं जितमिदं लब्धमिति श्रुत्वा पराजितान्।
द्यूतकाले महाराज स्मरसे स्म कुमारवत् ॥ 5-54-5(33888)
परुषाण्युच्यमानांश्च पुरा पार्थानुपेक्षसे।
कृत्स्नं राज्यं जयन्तीति प्रपातं नानुपश्यसि ॥ 5-54-6(33889)
पित्र्यं राज्यं महाराज कुरवस्ते सजाङ्गलाः।
अथ वीरैर्जितामुर्वीमखिलां प्रत्यपद्यथाः॥ 5-54-7(33890)
बाहुवीर्यार्जिता भूमिस्तव पार्थैर्निवेदिता।
मयेदं कृतमित्येव मन्यसे राजसत्तम॥ 5-54-8(33891)
ग्रस्तान्गन्धर्वराजेन मज्जतो ह्यप्लवेऽम्भसि।
आनिनाय पुनः पार्थः पुत्रांस्ते राजसत्तम ॥ 5-54-9(33892)
कुमारवच्च स्मयसे द्यूते विनिकृतेषु यत्।
पाण्डवेषु वने राजन्प्रव्रजत्सु पुनःपुनः ॥ 5-54-10(33893)
प्रवर्षतः शरव्रातानर्जुनस्य शितान्बहून्।
अप्यर्णवा विशुष्येयुः किं पुनर्मासयोनयः ॥ 5-54-11(33894)
अस्यतां फाल्गुनः श्रेष्ठो गाण्डीवं धनुषां वरम्।
केशवः सर्वभूतानामायुधानां सुदर्शनम् ।
वानरो रोचमानश्च केतुः केतुमतां वरः ॥ 5-54-12(33895)
एवमेतानि स रथो वहते सह यो रणे।
क्षपयिष्यति नो राजन्कालचक्रमिवोद्यतम् ॥ 5-54-13(33896)
तस्याद्य वसुधा राजन्निखिला भरतर्षभ।
यस्य भीमार्जिनौ योधौ स राजा राजसत्तम ॥ 5-54-14(33897)
तथा भीमहतप्रायां मञ्जन्तीं तव वाहिनीम् ।
दुर्योधनमुखा दृष्ट्वा क्षयं यास्यन्ति कौरवाः ॥ 5-54-15(33898)
न भीमार्जुनयोर्भीता लप्स्यन्ते विजयं विभो।
तव पुत्रा महाराज राजानश्चानुसारिणः ॥ 5-54-16(33899)
मत्स्यास्त्वामद्य नार्चन्ति पञ्चालाश्च सकेकयाः।
साल्वेयाः शूरसेनाश्च सर्वे त्वामवजानते ॥ 5-54-17(33900)
पार्थं ह्येते गताः सर्वे वीर्यज्ञास्तस्य धीमतः।
भक्त्या ह्यस्य विरुध्यन्ते तव पुत्रैः सदैव ते ॥ 5-54-18(33901)
अनर्हानेव तु वधे धर्मयुक्तान्विकर्मणा।
योऽक्लेशयत्पाण्डुपुत्रान्यो विद्वेष्ट्यधुनापि वै ॥ 5-54-19(33902)
सर्वोपायैर्नियन्तव्यः सानुगः पापपुरुषः।
तव पुत्रो महाराज नानुशोचितुमर्हसि ॥ 5-54-20(33903)
अपरोहं महाराज साक्षाच्चैनं ब्रवीम्यहम्।
द्यूतकाले मया चोक्तं विदुरेण च धीमता ॥ 5-54-21(33904)
यदिदं ते विलपितं पाण्डवान्प्रति भारत।
अनीशेनैव राजेन्द्र सर्वमेतन्निरर्थकम् ॥ ॥ 5-54-22(33905)
इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि चतुःपञ्चाशोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-54-3 एष कालः कलनावुद्धिस्तव नैव स्थास्यति ॥ 3 ।

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|